मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६, ऋक् १

संहिता

अ॒यं स यस्य॒ शर्म॒न्नवो॑भिर॒ग्नेरेध॑ते जरि॒ताभिष्टौ॑ ।
ज्येष्ठे॑भि॒र्यो भा॒नुभि॑रृषू॒णां प॒र्येति॒ परि॑वीतो वि॒भावा॑ ॥

पदपाठः

अ॒यम् । सः । यस्य॑ । शर्म॑न् । अवः॑ऽभिः । अ॒ग्नेः । एध॑ते । ज॒रि॒ता । अ॒भिष्टौ॑ ।
ज्येष्ठे॑भिः । यः । भा॒नुऽभिः॑ । ऋ॒षू॒णाम् । प॒रि॒ऽएति॑ । परि॑ऽवीतः । वि॒भाऽवा॑ ॥

सायणभाष्यम्

यस्यनिःश्वसितंवेदा योवेदेभ्योखिलंजगत् । निर्ममेतमहंवन्दे विद्यातीर्थमहेश्वरं ॥ १ ॥

सप्तमस्याष्टकस्येत्थं व्याकार्षीत्पंवमंसुधीः । सायणाह्वस्ततः षष्ठमध्यायंव्याचिकीर्षति ॥ २ ॥

दशमे मंडले प्रथमेनुवाके षोडश सूक्तानि तत्रायंसयस्येति सप्तर्चं षष्ठं सूक्तं आप्त्यस्य त्रितस्यार्षं त्रिष्टुभमाग्नेयम् । अयमित्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।

जरिता स्तोता अभिष्टौ यागे कृते यस्याग्नेरवोभिः पालनैः शर्मन् शर्मणि स्वगृहे एधते वर्धते । सोयमग्निर्यागार्थमस्माभिराहूतइतिशेषः । विभावा दीप्तिमान् योग्निःऋषूणां सूर्यरश्मीनां ज्येष्ठेभिः प्रशस्तैः भानुभिस्तेजोभिः परिवीतः परिवृतः पर्येति सर्वतोगच्छति । यत्रयत्र गंतव्यं तत्रतत्राप्रतिहतगतिर्गच्छतीत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः