मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७, ऋक् ३

संहिता

अ॒ग्निं म॑न्ये पि॒तर॑म॒ग्निमा॒पिम॒ग्निं भ्रात॑रं॒ सद॒मित्सखा॑यम् ।
अ॒ग्नेरनी॑कं बृह॒तः स॑पर्यं दि॒वि शु॒क्रं य॑ज॒तं सूर्य॑स्य ॥

पदपाठः

अ॒ग्निम् । म॒न्ये॒ । पि॒तर॑म् । अ॒ग्निम् । आ॒पिम् । अ॒ग्निम् । भ्रात॑रम् । सद॑म् । इत् । सखा॑यम् ।
अ॒ग्नेः । अनी॑कम् । बृ॒ह॒तः । स॒प॒र्य॒म् । दि॒वि । शु॒क्रम् । य॒ज॒तम् । सूर्य॑स्य ॥

सायणभाष्यम्

अहं स्तोता पितरं अग्निमेव मन्ये जाने आपिं बम्धुं अग्निमेव मन्ये भ्रातरमग्निमेव मन्ये सदमित् सदैव आवसंवादिनं सखायं अग्निमेव जानामि बृहतोमहतोग्नेः अनीकं आहवनीयाख्यं मुखं सपर्यं परिचरामि । तत्र लुप्तोपममेतत् दिवि द्युलोके स्थितं यजतं यष्टव्यं पूजनीयं सुर्यस्य संबन्धि शुक्रं दीफ्तिमन्मंडलं यथा कश्चिदभिप्रेतार्थसिद्धये आराधयतयि तद्वत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः