मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७, ऋक् ६

संहिता

स्व॒यं य॑जस्व दि॒वि दे॑व दे॒वान्किं ते॒ पाकः॑ कृणव॒दप्र॑चेताः ।
यथाय॑ज ऋ॒तुभि॑र्देव दे॒वाने॒वा य॑जस्व त॒न्वं॑ सुजात ॥

पदपाठः

स्व॒यम् । य॒ज॒स्व॒ । दि॒वि । दे॒व॒ । दे॒वान् । किम् । ते॒ । पाकः॑ । कृ॒ण॒व॒त् । अप्र॑ऽचेताः ।
यथा॑ । अय॑जः । ऋ॒तुऽभिः॑ । दे॒व॒ । दे॒वान् । ए॒व । य॒ज॒स्व॒ । त॒न्व॑म् । सु॒ऽजा॒त॒ ॥

सायणभाष्यम्

हे देव द्योतमानाग्ने त्वं दिवि द्युलोके स्थितान् देवानिन्द्रादीन् स्वयमात्मनैव यजस्व पाकः पक्तव्यप्रज्ञः अप्रचेताः अप्रकृष्टज्ञानोमनुष्यः ते तव किंकृणवत् किंकरोति त्वयान- धिष्ठितः किंचिदपि नजानातीत्यर्थः । किंच हेदेव त्वं ऋतुभिः कालविशेषैः देवान् यथा अयजः इष्टवानसि एव एवं हेसुजात शोभनजन्मन्नग्ने तन्वं आत्मानमपि यजस्व ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः