मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २१, ऋक् ३

संहिता

त्वे ध॒र्माण॑ आसते जु॒हूभि॑ः सिञ्च॒तीरि॑व ।
कृ॒ष्णा रू॒पाण्यर्जु॑ना॒ वि वो॒ मदे॒ विश्वा॒ अधि॒ श्रियो॑ धिषे॒ विव॑क्षसे ॥

पदपाठः

त्वे इति॑ । ध॒र्माणः॑ । आ॒स॒ते॒ । जु॒हूभिः॑ । सि॒ञ्च॒तीःऽइ॑व ।
कृ॒ष्णा । रू॒पाणि॑ । अर्जु॑ना । वि । वः॒ । मदे॑ । विश्वाः॑ । अधि॑ । श्रियः॑ । धि॒षे॒ । विव॑क्षसे ॥

सायणभाष्यम्

धर्माणोयज्ञस्य धारयितारऋत्विजः जुहूभिः संपूर्णाहुतिभिर्होमपात्रैः त्वे त्वामेव आस ते सेवन्ते । तत्रदृष्टान्तः—सिंचतीरिव वृष्टिलक्षणाः पृथिवीं सिंचंत्यआपः अग्नीन् यथा स्व पितृत्वेन सेवन्ते तद्वत् । अग्नेरापइतिश्रुतेः । तस्यापां पितृत्वम् । यद्वा जुहूभिः सिंचतीरिव सिच्यमानाआहुतयइव धर्मणः त्वया धार्यमाणारश्मयः त्वे त्वयि आसते निवसन्ति । हे अग्ने त्वं कृष्णा कृष्णावर्णानि अर्जुना अर्जुनानि श्वेतवर्णानिज्वालान्तर्गतरूपाणि च विश्वाः सर्वाः श्रियः शोभाअधिधिषे अधिकं यथा भवति तथा धारयसि किमर्थं वोयुष्माकं सर्वे षां देवानां विमदे विविधसोमपानजन्यमदार्थं यतएवमतः विवक्षसे त्वं महान् भवसि ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः