मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २१, ऋक् ५

संहिता

अ॒ग्निर्जा॒तो अथ॑र्वणा वि॒दद्विश्वा॑नि॒ काव्या॑ ।
भुव॑द्दू॒तो वि॒वस्व॑तो॒ वि वो॒ मदे॑ प्रि॒यो य॒मस्य॒ काम्यो॒ विव॑क्षसे ॥

पदपाठः

अ॒ग्निः । जा॒तः । अथ॑र्वणा । वि॒दत् । विश्वा॑नि । काव्या॑ ।
भुव॑त् । दू॒तः । वि॒वस्व॑तः । वि । वः॒ । मदे॑ । प्रि॒यः । य॒मस्य॑ । काम्यः॑ । विव॑क्षसे ॥

सायणभाष्यम्

अथर्वणा एतन्नाम्ना ऋषिणा जातोजनितोग्निः कथमवगम्यते । त्वामग्नेपुष्करादध्यथर्वा निरमन्थतेतिमंत्रान्तरात् । विश्वानि समस्तानि काव्या काव्यानि स्तोतृकर्माणि विदत् वेत्तिविवस्वतोयजमानस्य दूतः देवानामाह्वानार्थं भुवत् भवति । किंच यमस्य संयन्तुः यजमानस्य प्रियः इष्टः सन् काम्यः कमनीयः प्रार्थनीयोभवतीत्यर्थः । शिष्टं स्पष्टं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः