मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २५, ऋक् १०

संहिता

अ॒यं घ॒ स तु॒रो मद॒ इन्द्र॑स्य वर्धत प्रि॒यः ।
अ॒यं क॒क्षीव॑तो म॒हो वि वो॒ मदे॑ म॒तिं विप्र॑स्य वर्धय॒द्विव॑क्षसे ॥

पदपाठः

अ॒यम् । घ॒ । सः । तु॒रः । मदः॑ । इन्द्र॑स्य । व॒र्ध॒त॒ । प्रि॒यः ।
अ॒यम् । क॒क्षीव॑तः । म॒हः । वि । वः॒ । मदे॑ । म॒तिम् । विप्र॑स्य । व॒र्ध॒य॒त् । विव॑क्षसे ॥

सायणभाष्यम्

अयं घ ईदृशः खलु सप्रसिद्धोस्माभिरभिषुतः सोमः तुरः सर्वकार्येषु त्वरणशीलः मदो- मदकरः प्रियः इन्द्रस्य तर्पयिता वर्धत अस्मदीयां मतिं अवर्धयत् । अयं सोमः कक्षीवतः एतदाख्यस्य ऋषेः कीदृशस्य महोमहतः विप्रस्य मेधाविनः मतिं प्रज्ञां वर्धयत् अवर्धयत् । तद्वदस्माकमपि मतिमवर्धयदित्यर्थः । शिष्टं गतं ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२