मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३०, ऋक् २

संहिता

अध्व॑र्यवो ह॒विष्म॑न्तो॒ हि भू॒ताच्छा॒प इ॑तोश॒तीरु॑शन्तः ।
अव॒ याश्चष्टे॑ अरु॒णः सु॑प॒र्णस्तमास्य॑ध्वमू॒र्मिम॒द्या सु॑हस्ताः ॥

पदपाठः

अध्व॑र्यवः । ह॒विष्म॑न्तः । हि । भू॒त । अच्छ॑ । अ॒पः । इ॒त॒ । उ॒श॒तीः । उ॒श॒न्तः॒ ।
अव॑ । याः । चष्टे॑ । अ॒रु॒णः । सु॒ऽप॒र्णः । तम् । आ । अ॒स्य॒ध्व॒म् । ऊ॒र्मिम् । अ॒द्य । सु॒ऽह॒स्ताः॒ ॥

सायणभाष्यम्

हे अध्वर्यवः यूयं हविष्मन्तोहि अभिषोतव्येन सोमलक्षणेन हविषा युक्ताः खलु भूत भवत । किञ्च हे उशन्तः सोमाभिषवं कर्तुं कामयमानाः अध्वर्यवोयूयं उशतीः सोमाभिष वांगभावमभिलषन्तीः एकधनालक्षणाअपः अच्छाभिमुख्येन इत गच्छत । अरुणः रक्तवर्णः सुपर्णः सुपतनः सोमः अवाधस्तात् अन्तरिक्षे याः मेघान्तरगताः अपः चष्टे पश्यति । हे सुहस्ताः सोमाभिषवादिशोभनकर्मकारित्वात्सुवर्णमयपवित्राद्यलंकृताः । यद्वा शोभनहस्ताहे अध्वर्यवोयूयं अद्येदानीं तं तादृशं ऊर्मिं सोमसंघातं ताभिरद्भिः सह आ अस्यध्वं आभि मुख्येन स्थित्वा महतादरेण दशापवित्रे शोधनार्थं प्रक्षिपत ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४