मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३०, ऋक् ३

संहिता

अध्व॑र्यवो॒ऽप इ॑ता समु॒द्रम॒पां नपा॑तं ह॒विषा॑ यजध्वम् ।
स वो॑ दददू॒र्मिम॒द्या सुपू॑तं॒ तस्मै॒ सोमं॒ मधु॑मन्तं सुनोत ॥

पदपाठः

अध्व॑र्यवः । अ॒पः । इ॒त॒ । स॒मु॒द्रम् । अ॒पाम् । नपा॑तम् । ह॒विषा॑ । य॒ज॒ध्व॒म् ।
सः । वः॒ । द॒द॒त् । ऊ॒र्मिम् । अ॒द्य । सुऽपू॑तम् । तस्मै॑ । सोम॑म् । मधु॑ऽमन्तम् । सु॒नो॒त॒ ॥

सायणभाष्यम्

हे अध्वर्यवोयूयं अपः एकधनलक्षणान्युदकान्याहर्तुमितिशेषः समुद्रं उदधिस्थानीयं ज- लाशयं इत गच्छत । इदानीं उत्तरोर्धर्चोव्याख्यायते—पश्चाद्द्वितीयः पादः आर्थिकोयं क्रमः अद्येदानीं सोपान्नपात् वः जलाशयं प्रति गतेभ्योयुष्मभ्यं सुपूतं सुशुद्धं ऊर्मिं जलसमूहं ददत् ददातु यूयमपि तेन समूहेन तस्मै अपांनपाते मधुमन्तं मधुरस्वादूपेतं सोमं सुनोत अभिषुणुत अभिषुतेन सोमाख्येन हविषा अपांनपातं वृष्टिकर्मण्यधिकृतं देवं यजध्वं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४