मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३०, ऋक् १३

संहिता

प्रति॒ यदापो॒ अदृ॑श्रमाय॒तीर्घृ॒तं पयां॑सि॒ बिभ्र॑ती॒र्मधू॑नि ।
अ॒ध्व॒र्युभि॒र्मन॑सा संविदा॒ना इन्द्रा॑य॒ सोमं॒ सुषु॑तं॒ भर॑न्तीः ॥

पदपाठः

प्रति॑ । यत् । आपः॑ । अदृ॑श्रम् । आ॒ऽय॒तीः । घृ॒तम् । पयां॑सि । बिभ्र॑तीः । मधू॑नि ।
अ॒ध्व॒र्युऽभिः॑ । मन॑सा । स॒म्ऽवि॒दा॒नाः । इन्द्रा॑य । सोम॑म् । सुऽसु॑तम् । भर॑न्तीः ॥

सायणभाष्यम्

हे आपः आयतीः अस्मद्यज्ञं प्रत्यागच्छन्तीः यत् सुपांसुलुगितिविभक्तेर्लुक् याः युष्मान् प्रत्यदृश्रं प्रतिपश्यामि घृतं सोमसंसृष्टमाज्यं मधूनि मधुसदृशानि मृष्टरसानि पयांस्युदकानि संभूय बिभ्रतीः यागकाले धारयन्तीः तथा अध्वर्युभिः मनसा अन्तःकरणेन संविदानाःसं- भाषमाणाः । किञ्च इन्द्रायेन्द्रार्थं सुषुतं सुष्ठु सुतं सोमं भरन्तीः धारयन्तीः एवं भूतास्ताः युष्मान्स्तौमीतिशेषः ॥ १३ ॥ अपोनप्त्रीये एमाअग्मन्निति द्वे । सूत्रितंच—एमाअग्मन्रेवतीर्जीवधन्याइति द्वे सन्नासूत्त रयापरिधायेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६