मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३१, ऋक् ३

संहिता

अधा॑यि धी॒तिरस॑सृग्र॒मंशा॑स्ती॒र्थे न द॒स्ममुप॑ य॒न्त्यूमा॑ः ।
अ॒भ्या॑नश्म सुवि॒तस्य॑ शू॒षं नवे॑दसो अ॒मृता॑नामभूम ॥

पदपाठः

अधा॑यि । धी॒तिः । अस॑सृग्रम् । अंशाः॑ । ती॒र्थे । न । द॒स्मम् । उप॑ । य॒न्ति॒ । ऊमाः॑ ।
अ॒भि । आ॒न॒श्म॒ । सु॒वि॒तस्य॑ । शू॒षम् । नवे॑दसः । अ॒मृता॑नाम् । अ॒भू॒म॒ ॥

सायणभाष्यम्

धीतिः देवयागक्रिया अधायि निहिता स्थापिता अस्माभिः प्रवर्तितेत्यर्थः तदनन्तरं ऊमाः अवितारः तर्पयितारः अंशाः अस्माभिर्दत्ताः हविर्भागाः दस्मं दर्शनीयं शत्रूणामुप- क्षपयितारं वा अससृग्रं असमानसृष्टिं उग्रजन्मानमित्यर्थः एवंभूतं देवसंघं उपयन्ति उप गच्छन्तु । तत्र दृष्टान्तः—तीर्थे न यथा गंगादितीर्थे तर्पणमुखेन विसृष्टाअपामंशादेवस्ंघमुप गच्छन्ति तद्वत् । तदनन्तरं वयं सुवितस्य सुइतस्य सुष्ठु प्राप्तस्य स्वर्गादिकस्य शूषं सुखं अभ्यानश्म अभिप्राप्नवाणि किञ्च वयं अमृतानां देवानां नवेदसोनवेदेत्येतस्मिन्नर्थे नवेदः शब्दोनभ्राण्नपान्नवेदाइति निपातितः न न वेत्तारः वेत्तारएव स्वरूपतोज्ञातारएवेत्यर्थः अभूम भवेमेत्याशास्महे ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७