मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३१, ऋक् ११

संहिता

उ॒त कण्वं॑ नृ॒षदः॑ पु॒त्रमा॑हुरु॒त श्या॒वो धन॒माद॑त्त वा॒जी ।
प्र कृ॒ष्णाय॒ रुश॑दपिन्व॒तोध॑रृ॒तमत्र॒ नकि॑रस्मा अपीपेत् ॥

पदपाठः

उ॒त । कण्व॑म् । नृ॒ऽसदः॑ । पु॒त्रम् । आ॒हुः॒ । उ॒त । श्या॒वः । धन॑म् । आ । अ॒द॒त्त॒ । वा॒जी ।
प्र । कृ॒ष्णाय॑ । रुश॑त् । अ॒पि॒न्व॒त॒ । ऊधः॑ । ऋ॒तम् । अत्र॑ । नकिः॑ । अ॒स्मै॒ । अ॒पी॒पे॒त् ॥

सायणभाष्यम्

उतापिच कण्वमृषिं नृषदः पुत्रमाहुः वेदवादिनोवदन्ति । उतापिच वाजी हविर्लक्षणा न्नवान्कण्वः श्यामः श्यामवर्णः सन्नस्मादग्नेः सकाशात् धनमादत्त अगृह्णात् । कृष्णाय श्या मवर्णाय नार्षदाय कण्वाय अग्निरूधः रुशत् रोचमानं रूपं प्रापिन्वत प्रासिञ्चत् । अत्रेत्थं अग्निव्यतिरिक्तः कश्चिदपि देवः अस्मै कण्वाय ऋतं यज्ञं नकिरपीपेत् नावर्धत । युवं श्या वायरुशती मदत्तमित्युक्तं ॥ ११ ॥

प्रसुग्मन्तेति नवर्चं तृतीयं सूक्तं आदितः पञ्चजगत्यः चतस्रस्त्रिष्टुभः पूर्वदृषिदेवते । तथाचानुक्रान्तम्—प्रसुग्मन्तानव पञ्चाद्याजगत्यइति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८