मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३२, ऋक् ९

संहिता

ए॒तानि॑ भ॒द्रा क॑लश क्रियाम॒ कुरु॑श्रवण॒ दद॑तो म॒घानि॑ ।
दा॒न इद्वो॑ मघवान॒ः सो अ॑स्त्व॒यं च॒ सोमो॑ हृ॒दि यं बिभ॑र्मि ॥

पदपाठः

ए॒तानि॑ । भ॒द्रा । क॒ल॒श॒ । क्रि॒या॒म॒ । कुरु॑ऽश्रवण । दद॑तः । म॒घानि॑ ।
दा॒नः । इत् । वः॒ । म॒घ॒ऽवा॒नः॒ । सः । अ॒स्तु॒ । अ॒यम् । च॒ । सोमः॑ । हृ॒दि । यम् । बिभ॑र्मि ॥

सायणभाष्यम्

हे कलश कलावन् सर्वकलापरिपूर्ण यद्वा लुप्तमत्वर्थीयः द्रोणकलशवन् हे कुरुश्रवण कुरवऋत्विजः तेषां स्वभूतानां स्तुतीनां श्रोतः हेइन्द्र मघानि धनानि स्तोतृभ्योयष्टृभ्यश्च ददतः प्रयच्छतस्तवेन्द्रस्यार्थं एतानि भद्रा भजनीयानि हवींषि स्तोत्राणि च क्रियाम वि- धेयास्म करोतेराशीर्लिङि रिङ्शयग्लिङ् श्विति रिङादेशः । अथ स्तोतॄन्प्रत्याह हेमघवानः मंहनीयस्तोत्ररूपधनवन्तः वोयुष्माकं सइन्द्रः दानइत् धनादेर्दातैवास्तु भवतु अयंच यज्ञे- स्थितः सोमोदातास्तु हृदि हृदये आत्मीये यं पीतं सोमं बिभर्मि धारयामि डुभृञ्धारण- पोषणयोः जौहोत्यादिकः भृञामिदित्यभ्यासस्येत्वं यद्योगादनिघातः यद्वा हेकलश कुल- जात हे कुरुश्रवण एतन्नामक त्रसदस्योः पुत्र राजन् ऋत्विग्भ्योधनानि प्रयच्छतस्तवार्थं वयं कर्माणि क्रियामहे मघवानः कुरुश्रवणाः पूजायां बहुवचनं पदं यागकर्म कुर्वाणस्ये तव इन्द्रोदाता भवतु अयं सोमश्च धनानि प्रयच्छतु ॥ ९ ॥

वेदार्थस्य प्रकाशेन तमोहार्दं निवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सा- यणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये सप्तमाष्टके सप्तमोध्यायः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०