मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३३, ऋक् ७

संहिता

अधि॑ पुत्रोपमश्रवो॒ नपा॑न्मित्रातिथेरिहि ।
पि॒तुष्टे॑ अस्मि वन्दि॒ता ॥

पदपाठः

अधि॑ । पु॒त्र॒ । उ॒प॒म॒ऽश्र॒वः॒ । नपा॑त् । मि॒त्र॒ऽअ॒ति॒थेः॒ । इ॒हि॒ ।
पि॒तुः । ते॒ । अ॒स्मि॒ । व॒न्दि॒ता ॥

सायणभाष्यम्

हे पुत्रोपमश्रवः मित्रातिथेर्नपात् पुत्रः त्वं अधीहि मत्समीपमागच्छ ते तव पितुस्तस्य मित्रातिथेरहं वंदिता स्तोतास्मि एतत् ज्ञात्वा शोकं मा कुरु यद्देयं द्रव्यमस्ति तत्सर्वं मह्यं देहि ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः