मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३३, ऋक् ८

संहिता

यदीशी॑या॒मृता॑नामु॒त वा॒ मर्त्या॑नाम् ।
जीवे॒दिन्म॒घवा॒ मम॑ ॥

पदपाठः

यत् । ईशी॑य । अ॒मृता॑नाम् । उ॒त । वा॒ । मर्त्या॑नाम् ।
जीवे॑त् । इत् । म॒घऽवा॑ । मम॑ ॥

सायणभाष्यम्

उतापिच यद्यमृतानां देवानां मर्त्यानां मनुष्याणां वा मरणहेतूनामीशीय अहमीश्वरः स्यां तर्हि मम कवषस्य याज्योमघवा धनवान्मित्रातिथीराजा जीवेत् प्राणान् धारयेत् । तथाच नाहं मरणहेतोरीश्वरस्तस्मादयं राजा मृतइत्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः