मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३७, ऋक् ५

संहिता

विश्व॑स्य॒ हि प्रेषि॑तो॒ रक्ष॑सि व्र॒तमहे॑ळयन्नु॒च्चर॑सि स्व॒धा अनु॑ ।
यद॒द्य त्वा॑ सूर्योप॒ब्रवा॑महै॒ तं नो॑ दे॒वा अनु॑ मंसीरत॒ क्रतु॑म् ॥

पदपाठः

विश्व॑स्य । हि । प्रऽइ॑षितः । रक्ष॑सि । व्र॒तम् । अहे॑ळयन् । उ॒त्ऽचर॑सि । स्व॒धाः । अनु॑ ।
यत् । अ॒द्य । त्वा॒ । सू॒र्य॒ । उ॒प॒ऽब्रवा॑महै । तत् । नः॒ । दे॒वाः । अनु॑ । मं॒सी॒र॒त॒ । क्रतु॑म् ॥

सायणभाष्यम्

हे सूर्य प्रेषितः प्रेरितः त्वमहेळयन् अक्रुध्यन् विश्वस्य सर्वस्य यजमानस्य व्रतं कर्म रक्षसि हि यज्ञविध्वंसकेभ्योराक्षसेभ्यः पालयसि । स्वधाहवींष्यनु उच्चरसि उद्गच्छसिच प्रातहोमे निवृत्ते सति पश्चादुद्गच्छसीत्यर्थः । तथाच यद्यदाद्यास्मिन्नहनि त्वा त्वां उपब्र- वामहै उपब्रूमः तदानोस्माकं तं क्रतुं तत्कर्म देवाइंद्रादयोनुमंसीरत अनुमन्यंतां ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२