मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३७, ऋक् ११

संहिता

अ॒स्माकं॑ देवा उ॒भया॑य॒ जन्म॑ने॒ शर्म॑ यच्छत द्वि॒पदे॒ चतु॑ष्पदे ।
अ॒दत्पिब॑दू॒र्जय॑मान॒माशि॑तं॒ तद॒स्मे शं योर॑र॒पो द॑धातन ॥

पदपाठः

अ॒स्माक॑म् । दे॒वाः॒ । उ॒भया॑य । जन्म॑ने । शर्म॑ । य॒च्छ॒त॒ । द्वि॒ऽपदे॑ । चतुः॑ऽपदे ।
अ॒दत् । पिब॑त् । ऊ॒र्जय॑मानम् । आशि॑तम् । तत् । अ॒स्मे इति॑ । शम् । योः । अ॒र॒पः । द॒धा॒त॒न॒ ॥

सायणभाष्यम्

हे देवाः सूर्येणाभ्यनुज्ञातायूयमस्माकं द्विपदे मनुष्यात्मकाय चतुष्पदे पश्वात्मकाय चो भयाय उभयविधाय जन्मने भूतजाताय शर्मं सुखं यच्छत दत्त । किञ्च यथास्मत्पुत्रादिकं अदत् भक्षणीयं भक्षयत् पिबत् पानीयं पिबच्च ऊर्जयमानं बलवंतमिवात्मानमाचरदाशितं सुहितं च भवति तथा अस्मे अस्माकं तत् शं रोगशांतिनिमित्तकं सुखं योर्विषययोगज- नितं सुखं च अरपः अपापं च दधातन प्रयच्छत ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३