मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५१, ऋक् ६

संहिता

अ॒ग्नेः पूर्वे॒ भ्रात॑रो॒ अर्थ॑मे॒तं र॒थीवाध्वा॑न॒मन्वाव॑रीवुः ।
तस्मा॑द्भि॒या व॑रुण दू॒रमा॑यं गौ॒रो न क्षे॒प्नोर॑विजे॒ ज्याया॑ः ॥

पदपाठः

अ॒ग्नेः । पूर्वे॑ । भ्रात॑रः । अर्थ॑म् । ए॒तम् । र॒थीऽइ॑व । अध्वा॑नम् । अनु॑ । आ । अ॒व॒री॒वु॒रिति॑ ।
तस्मा॑त् । भि॒या । व॒रु॒ण॒ । दू॒रम् । आ॒य॒म् । गौ॒रः । न । क्षे॒प्नोः । अ॒वि॒जे॒ । ज्यायाः॑ ॥

सायणभाष्यम्

अनयाग्निः स्वपलायननिमित्तमाह। हे देवा अग्ने र्मम पूर्वे पूर्वमुत्पन्ना भ्रातरो भूपतिर्भुवनपतिर्भुतानां पतिरिति त्रयोऽग्रजा एतमर्थं हविर्वहनाख्यमर्थमन्वावरीवुः। अनुक्रमेण वृतवन्तः। तत्र वृणोतेर्यङ् लुगन्ताल्लुङि झेष्छान्दसो लुक्। बहुलं छन्दसीत्युक्तम्। आवरणे दृष्टान्तः। रथीवाध्वानम्। अध्वानं यथा रथी वृणुते तद्वत्। ते भ्रातरस्तथा कुर्वन्तो हताः। तस्मान्मरनद्भिया भीत्या हे वरुण दूरं देशमायम् । किं च क्षेप्नोरिषु क्षेप्तुर्धनुषो ज्यायाः सकाशाद्गौरो न मृग इव स यथा बिभेति चलति वा तद्वदविजे। अकम्पे। ओविजी भयचलनयोः। अनुदत्तेत्तौदादिकः। तस्य लङ्युत्तमे रूपम्॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११