मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६०, ऋक् ८

संहिता

यथा॑ यु॒गं व॑र॒त्रया॒ नह्य॑न्ति ध॒रुणा॑य॒ कम् ।
ए॒वा दा॑धार ते॒ मनो॑ जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥

पदपाठः

यथा॑ । यु॒गम् । व॒र॒त्रया॑ । नह्य॑न्ति । ध॒रुणा॑य । कम् ।
ए॒व । दा॒धा॒र॒ । ते॒ । मनः॑ । जी॒वात॑वे । न । मृ॒त्यवे॑ । अथो॒ इति॑ । अ॒रि॒ष्टऽता॑तये ॥

सायणभाष्यम्

यथा युगं वरत्रया पाशेन नह्यन्ति बध्नन्ति धुरुणाय रथादिधारणाय। कमिति पादपुरणः। एवैवं ते मनो दाधार परिधावग्निः। किमर्थम् । जीवातवे जीवनाय न मृत्यवे मरणाय न अथो अपि चारिष्टातयेऽविनाशाय। स्वार्थिकस्तातिः॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५