मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७२, ऋक् ४

संहिता

भूर्ज॑ज्ञ उत्ता॒नप॑दो भु॒व आशा॑ अजायन्त ।
अदि॑ते॒र्दक्षो॑ अजायत॒ दक्षा॒द्वदि॑ति॒ः परि॑ ॥

पदपाठः

भूः । ज॒ज्ञे॒ । उ॒त्ता॒नऽप॑दः । भु॒वः । आशाः॑ । अ॒जा॒य॒न्त॒ ।
अदि॑तेः । दक्षः॑ । अ॒जा॒य॒त॒ । दक्षा॑त् । ऊं॒ इति॑ । अदि॑तिः । परि॑ ॥

सायणभाष्यम्

भूरुत्तानपदो वृक्षाज्जज्ञे। तथा भुवः सकाशादाशा अजायन्त। तथादितेर्दक्षोऽजायत। उत्पन्नः। दक्षादु दक्षादिप्यदितिः पर्यजायत। न स्वोत्पन्नं कार्यम् स्वस्यैव कारनमपि भवतिति विप्रतिषिद्धमिति वाच्यम्। यास्काचार्य इदमेव वाक्यमुदाहृत्य विरोधमाशङ्क्य पर्यहरत्। तथा हि। अदितेर्दक्षो अजायत दक्षाद्वदितिः परीति च तत्कथमुपपद्येत समानजन्मानौ स्यातामित्यपि वा देवधर्मेणेतरेतरजन्मानौ स्यातामितरेतरप्रकृती। नि. ११-२३। इति॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः