मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७२, ऋक् ५

संहिता

अदि॑ति॒र्ह्यज॑निष्ट॒ दक्ष॒ या दु॑हि॒ता तव॑ ।
तां दे॒वा अन्व॑जायन्त भ॒द्रा अ॒मृत॑बन्धवः ॥

पदपाठः

अदि॑तिः । हि । अज॑निष्ट । दक्ष॑ । या । दु॒हि॒ता । तव॑ ।
ताम् । दे॒वाः । अनु॑ । अ॒जा॒य॒न्त॒ । भ॒द्राः । अ॒मृत॑ऽबन्धवः ॥

सायणभाष्यम्

अदितिदेवताके पशावदितिर्ह्यजनिष्टेत्येषा हविषोऽनुवाक्या। सूत्रितं च। अदितिर्ह्यजनिष्ट सुत्रामाणम् पृथिवीं द्यामनेहसं॥ आ. ३-८॥ इति॥

हे दक्ष तव या दुहिताभूत् सादितिरजनिष्ट हि पुत्रानदित्यान्। तदेवाह। तां देवा अन्वजायन्त भद्राः स्तुत्या भजनीया अमृतबन्धवोऽमरणबन्धनाः॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः