मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७२, ऋक् ७

संहिता

यद्दे॑वा॒ यत॑यो यथा॒ भुव॑ना॒न्यपि॑न्वत ।
अत्रा॑ समु॒द्र आ गू॒ळ्हमा सूर्य॑मजभर्तन ॥

पदपाठः

यत् । दे॒वाः॒ । यत॑यः । य॒था॒ । भुव॑नानि । अपि॑न्वत ।
अत्र॑ । स॒मु॒द्रे । आ । गू॒ळ्हम् । आ । सूर्य॑म् । अ॒ज॒भ॒र्त॒न॒ ॥

सायणभाष्यम्

यद्यदा हे देवाः यतयो यथा। वृष्त्या इयमयन्तिति वा वर्षणेन यातयन्तिति वा यतयो मेघाः। ते यथोदकैर्भुवनानि लोकं पूरयन्ति तद्वत्स्वतेजोभिरपिन्वत। पूरिवन्तः। अत्र समुद्रेऽप्स्वा गूळ्हं निगूळ्हं सूर्यं प्रातरुदयायाजभर्तन। आहृतवन्तः॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः