मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७३, ऋक् १०

संहिता

अश्वा॑दिया॒येति॒ यद्वद॒न्त्योज॑सो जा॒तमु॒त म॑न्य एनम् ।
म॒न्योरि॑याय ह॒र्म्येषु॑ तस्थौ॒ यतः॑ प्रज॒ज्ञ इन्द्रो॑ अस्य वेद ॥

पदपाठः

अश्वा॑त् । इ॒या॒य॒ । इति॑ । यत् । वद॑न्ति । ओज॑सः । जा॒तम् । उ॒त । म॒न्ये॒ । ए॒न॒म् ।
म॒न्योः । इ॒या॒य॒ । ह॒र्म्येषु॑ । त॒स्थौ॒ । यतः॑ । प्र॒ऽज॒ज्ञे । इन्द्रः॑ । अ॒स्य॒ । वे॒द॒ ॥

सायणभाष्यम्

इन्द्रसामर्थ्यं दृष्ट्वा किचिदेनमश्वादादित्यादियायोदितवानिति वदन्ति यद्यद्यपि उत तथाप्यहमेनमोजसो बलाज्जातं मन्ये। जानामि। अस्य तेजसास्वत्वं दृष्ट्वा सुर्यादुत्पन्न इति तेषां मतिः। अहं त्वोजः पदार्थाज्जात इति मन्ये यतोऽयं व्रुत्रादीन्हतवानिति। अथवायं मन्योः क्रोधादियाय। उदितवान्। अतो हर्म्येषु शत्रुसम्बन्धिषु युद्धेषु हर्म्येष्वेव वा तस्थौ। तिष्थति। यतोऽयं प्रजज्ञ उत्पन्न इतीन्द्रं एवास्य। स्वस्येत्यर्थः। सामर्थ्यं वेद । जानाति। न ह्यन्यो ज्ञातुमीष्टे॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः