मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७७, ऋक् १

संहिता

अ॒भ्र॒प्रुषो॒ न वा॒चा प्रु॑षा॒ वसु॑ ह॒विष्म॑न्तो॒ न य॒ज्ञा वि॑जा॒नुषः॑ ।
सु॒मारु॑तं॒ न ब्र॒ह्माण॑म॒र्हसे॑ ग॒णम॑स्तोष्येषां॒ न शो॒भसे॑ ॥

पदपाठः

अ॒भ्र॒ऽप्रुषः॑ । न । वा॒चा । प्रु॒ष॒ । वसु॑ । ह॒विष्म॑न्तः । न । य॒ज्ञाः । वि॒ऽजा॒नुषः॑ ।
सु॒ऽमारु॑तम् । न । ब्र॒ह्माण॑म् । अ॒र्हसे॑ । ग॒णम् । अ॒स्तो॒षि॒ । ए॒षा॒म् । न । शो॒भसे॑ ॥

सायणभाष्यम्

अभ्रप्रुष इत्यष्टर्चम् नवमं सूक्तं भृगुगोत्रस्य स्यूमरश्मेरार्षम् मरुद्देवताकम् । पञ्चमि जगती शिष्टाः सप्त त्रिष्टुभः। तथा चानुक्रान्तम्। अभ्रप्रुषः स्यूमरश्मिर्भार्गवो मारुतं तु पञ्चमी जगतीति। गतो विनियोगः॥

अभ्रप्रुषो न मेघान्निर्गच्छन्त उदकबिन्दव इव वाचा स्तुत्या प्रिता मरुतो वसु धनं प्रुष। सिञ्चन्ति। व्यत्ययेन बहुवचनम्। किञ्च हविष्मन्तो न यज्ञा हविर्भिर्युक्ता यागा इव विजानुषो जगतो विजनयितारो भवन्ति। अथ समुदायेनाह। तेषामेषां सुमारुतम् शोभमानानां मरुतां ब्रह्माणं महान्तं गणमर्हसे पुजार्थं नास्तोषि। नास्तोषम्। न स्तुतवानस्मीतः पूर्वम्। तथा शोभसे शोभार्थमपि मारुतं गनम् नास्तौषि। अत इदानीं नूतनेन स्तोत्रेण स्तौमीत्यर्थः॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०