मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७८, ऋक् २

संहिता

अ॒ग्निर्न ये भ्राज॑सा रु॒क्मव॑क्षसो॒ वाता॑सो॒ न स्व॒युजः॑ स॒द्यऊ॑तयः ।
प्र॒ज्ञा॒तारो॒ न ज्येष्ठा॑ः सुनी॒तयः॑ सु॒शर्मा॑णो॒ न सोमा॑ ऋ॒तं य॒ते ॥

पदपाठः

अ॒ग्निः । न । ये । भ्राज॑सा । रु॒क्मऽव॑क्षसः । वाता॑सः । न । स्व॒ऽयुजः॑ । स॒द्यःऽऊ॑तयः ।
प्र॒ऽज्ञा॒तारः॑ । न । ज्येष्ठाः॑ । सु॒ऽनी॒तयः॑ । सु॒ऽशर्मा॑णः । न । सोमाः॑ । ऋ॒तम् । य॒ते ॥

सायणभाष्यम्

ये मरुतोऽग्निर्नाग्निरिव स यथा भ्राजसा तेजसा शोभते तद्वद्भ्राजसा युक्ताः किञ्च रुक्मवक्षसो रुक्मालङ्कृतवक्षस्कावातासो न प्रत्यक्षवाता इव स्वयुजः स्वयं युज्यमानाः सद्य ऊतयः सद्योगमनाः प्रज्ञातारो न प्रकर्षेण ज्ञातारो ज्ञानिन इव ज्येष्ठाः पूज्याः सुनीतयः सुनयनाः सुशर्माणो न सोमाः सुसुखाः सोमा इव ते यूयमृतं यते यज्ञम् गच्छते यजमानाय गच्छतेति॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२