मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७८, ऋक् ४

संहिता

रथा॑नां॒ न ये॒३॒॑ऽराः सना॑भयो जिगी॒वांसो॒ न शूरा॑ अ॒भिद्य॑वः ।
व॒रे॒यवो॒ न मर्या॑ घृत॒प्रुषो॑ऽभिस्व॒र्तारो॑ अ॒र्कं न सु॒ष्टुभः॑ ॥

पदपाठः

रथा॑नाम् । न । ये । अ॒राः । सऽना॑भयः । जि॒गी॒वांसः॑ । न । शूराः॑ । अ॒भिऽद्य॑वः ।
व॒रे॒ऽयवः॑ । न । मर्याः॑ । घृ॒त॒ऽप्रुषः॑ । अ॒भि॒ऽस्व॒र्तारः॑ । अ॒र्कम् । न । सु॒ऽस्तुभः॑ ॥

सायणभाष्यम्

रथानां न रथचक्राणामिवाराः ते यथा बहवोऽपि सनाभयह् समाननाभयो भवन्ति तद्वद्ये परस्परं सनाभयः समानबन्धना एकस्मिन्नेवान्तरिक्षे वर्तमानाः। परस्परं बन्धुभुता इत्यर्थः। जिगीवांसो न शूरा जयशीलाः शूरा इवाभिद्यवोऽभिगतदीप्तयः किञ्च वरेयवो न मर्या वृतं वरं परस्मै प्रदातुमिच्छन्तो मनुष्या इव घृतप्रुष उदकसेक्तारः। उदक पूर्वं हि वराणि वसूनि दीयन्ते नियमेन। वृष्ट्युदकप्रदा इत्यर्थः। किञ्चाभिस्वर्तारोऽर्कं नार्कमर्चनीयं स्तोत्रमभिस्वर्तारोऽभितः शब्दयितारो वन्दिन इव सुष्टुभः सुशब्दाः॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२