मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७८, ऋक् ५

संहिता

अश्वा॑सो॒ न ये ज्येष्ठा॑स आ॒शवो॑ दिधि॒षवो॒ न र॒थ्य॑ः सु॒दान॑वः ।
आपो॒ न नि॒म्नैरु॒दभि॑र्जिग॒त्नवो॑ वि॒श्वरू॑पा॒ अङ्गि॑रसो॒ न साम॑भिः ॥

पदपाठः

अश्वा॑सः । न । ये । ज्येष्ठा॑सः । आ॒शवः॑ । दि॒धि॒षवः॑ । न । र॒थ्यः॑ । सु॒ऽदान॑वः ।
आपः॑ । न । नि॒म्नैः । उ॒दऽभिः॑ । जि॒ग॒त्नवः॑ । वि॒श्वऽरू॑पाः । अङ्गि॑रसः । न । साम॑ऽभिः ॥

सायणभाष्यम्

ये मरुतोऽश्वासो नाश्वा इव ज्येष्ठा प्रशस्यतमा आशवह् शीघ्रगमनाः। तथा दिधिषवो न वसूनां धारका इव रथ्यो रथस्वामिनः सुदानवः सुदानाः। तथापो नाप इव निम्नैः प्रवणगैरुदभिरुदकैः सह जिगत्नवो गमनशीलाः। तथा विश्वरूपा नानारूपाः सामभिर्युक्ता अङ्गिरसो नाङ्गिरस इव। सर्वदा सामगा इत्यर्थः॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२