मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् २३

संहिता

अ॒नृ॒क्ष॒रा ऋ॒जवः॑ सन्तु॒ पन्था॒ येभि॒ः सखा॑यो॒ यन्ति॑ नो वरे॒यम् ।
सम॑र्य॒मा सं भगो॑ नो निनीया॒त्सं जा॑स्प॒त्यं सु॒यम॑मस्तु देवाः ॥

पदपाठः

अ॒नृ॒क्ष॒राः । ऋ॒जवः॑ । स॒न्तु॒ । पन्थाः॑ । येभिः॑ । सखा॑यः । यन्ति॑ । नः॒ । व॒रे॒ऽयम् ।
सम् । अ॒र्य॒मा । सम् । भगः॑ । नः॒ । नि॒नी॒या॒त् । सम् । जाः॒ऽप॒त्यम् । सु॒ऽयम॑म् । अ॒स्तु॒ । दे॒वाः॒ ॥

सायणभाष्यम्

हे देवाः पन्थाः पन्थानो मार्गा अनृक्षराः। ऋक्षरः कण्टक उच्यते। कण्टकरहिता ऋजवोऽकुटिलाश्च सन्तु येभिर्यैः पथिभिर्नोस्माकं सखायो वरप्रेषिता वरेयं वरैर्याचितव्यम् पितरं प्रति यन्ति गच्छन्ति ते पन्था इति। किञ्चार्यमा देवो नोऽस्मान् सं निनीयात्। सम्यक् प्रापयेत्। तथा भगो देवः सं निनीयात्। हे देवाः आसङ्गतमस्तु पतिकुलमिति शेषः तथेदं जास्पत्यं जायापत्योर्युगलं सुयममस्तु। सुमिथुनमस्तु॥२३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४