मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् ३०

संहिता

अ॒श्री॒रा त॒नूर्भ॑वति॒ रुश॑ती पा॒पया॑मु॒या ।
पति॒र्यद्व॒ध्वो॒३॒॑ वास॑सा॒ स्वमङ्ग॑मभि॒धित्स॑ते ॥

पदपाठः

अ॒श्री॒रा । त॒नूः । भ॒व॒ति॒ । रुश॑ती । पा॒पया॑ । अ॒मु॒या ।
पतिः॑ । यत् । व॒ध्वः॑ । वास॑सा । स्वम् । अङ्ग॑म् । अ॒भि॒ऽधित्स॑ते ॥

सायणभाष्यम्

अत्रापि वधूवसः संस्पर्शनिन्दोच्यते। तनूर्वरस्य सम्बन्धिन्यश्रीरश्रीका भवति। कथं स्यादिति उच्यते। रुशती। रुशदिति वर्णनाम। दीप्तयामुयानया पापरुपया कृत्यया युक्ता चेत्तनूः। तदेवाह। पतिर्यद्यदि वध्वो वाससा स्वमङ्गमभिधित्सते परिधातुमिच्छति॥३०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५