मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८६, ऋक् १९

संहिता

अ॒यमे॑मि वि॒चाक॑शद्विचि॒न्वन्दास॒मार्य॑म् ।
पिबा॑मि पाक॒सुत्व॑नो॒ऽभि धीर॑मचाकशं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

पदपाठः

अ॒यम् । ए॒मि॒ । वि॒ऽचाक॑शत् । वि॒ऽचि॒न्वन् । दास॑म् । आर्य॑म् ।
पिबा॑मि । पा॒क॒ऽसुत्व॑नः । अ॒भि । धीर॑म् । अ॒चा॒क॒श॒म् । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

सायणभाष्यम्

अथेन्द्रो ब्रवीति। विचाकशत् पश्यन्यजमानान् दासमुपक्षपयितारमसुरमार्यमपि च विचिन्वन् पृथक्कुर्वन्नयमहमिन्द्र एमि। यज्ञं प्रति गच्छामि। यज्ञं गत्वा च पाकसुत्वनः। पचतिति पाकः। सुनोतिति सुत्वा। हविषां पक्तुः सोमस्याभिषोतुर्यजमानस्य पाकेन विपक्वेन मनसा सोमस्याभिषोतुर्वा यजमानस्य सम्बन्धिनं सोमं पिबामि। तथा धीरं धीमन्तं यजमानमभ्यचाकशम् । अभिपश्याम्मि। योऽहमिन्द्रो विश्वस्मादुत्तरः॥१९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः