मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९६, ऋक् ७

संहिता

अरं॒ कामा॑य॒ हर॑यो दधन्विरे स्थि॒राय॑ हिन्व॒न्हर॑यो॒ हरी॑ तु॒रा ।
अर्व॑द्भि॒र्यो हरि॑भि॒र्जोष॒मीय॑ते॒ सो अ॑स्य॒ कामं॒ हरि॑वन्तमानशे ॥

पदपाठः

अर॑म् । कामा॑य । हर॑यः । द॒ध॒न्वि॒रे॒ । स्थि॒राय॑ । हि॒न्व॒न् । हर॑यः । हरी॒ इति॑ । तु॒रा ।
अर्व॑त्ऽभिः । यः । हरि॑ऽभिः । जोष॑म् । ईय॑ते । सः । अ॒स्य॒ । काम॑म् । हरि॑ऽवन्तम् । आ॒न॒शे॒ ॥

सायणभाष्यम्

अरमलं पर्याप्तं कामायेन्द्रकामनाय हरयो हरितवर्णाः सोमा दधन्विरे। ते च हरयः स्थिराय युद्धेऽपलयितायेन्द्राय तुरा तुरौ त्वरमाणौ हरी अश्वौ हिन्वन्। प्रेरयन्ति। योऽर्वद्भिररणकुशलैर्हरिभिरश्वैर्जोषं शूरैः सेव्यं सङ्ग्राममीयते गच्छति स रथोऽस्येन्द्रस्य स्वभुतं कामं कमनीयं हरिवन्तं सोमवन्तं यज्ञमानशे। व्याप्नोति॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः