मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९६, ऋक् ८

संहिता

हरि॑श्मशारु॒र्हरि॑केश आय॒सस्तु॑र॒स्पेये॒ यो ह॑रि॒पा अव॑र्धत ।
अर्व॑द्भि॒र्यो हरि॑भिर्वा॒जिनी॑वसु॒रति॒ विश्वा॑ दुरि॒ता पारि॑ष॒द्धरी॑ ॥

पदपाठः

हरि॑ऽश्मशारुः । हरि॑ऽकेशः । आ॒य॒सः । तु॒रः॒ऽपेये॑ । यः । ह॒रि॒ऽपाः । अव॑र्धत ।
अर्व॑त्ऽभिः । यः । हरि॑ऽभिः । वा॒जिनी॑ऽवसुः । अति॑ । विश्वा॑ । दुः॒ऽइ॒ता । पारि॑षत् । हरी॒ इति॑ ॥

सायणभाष्यम्

हरिश्मशारुर्हरितवर्णश्मश्रुर्हरिकेशो हरितवर्नकेश अयसोऽयोमयहृदयः। शत्रूणां घातक इत्यर्थः। एतादृशो य इन्द्रस्तुरस्पेये तूर्णं पातव्ये सोमे हरिपा हरितवर्नसोमपा अवर्धत वर्धते यश्चार्वद्भिर्गृन्तृभिर्हरिभिरश्वैः सोमैर्वा वाजिनीवसुः। वाजिनमन्नं हविर्लक्षणम् । तदस्या अस्तीति वाजिनी क्रिया। सैव वसु धनं यस्य स तथोक्तः। यज्ञधन इत्यर्थः। यद्वा। वाजिनमेव वाजिनी। तदेव धनं यस्य। स एवमुक्तलक्षण इन्द्रो हरी रथे योजयित्वा विश्वा विश्वानि सर्वाणि दुरितास्माकं दुरितानि पारिषत्। पारयतु। पारयतेर्लेटि सिप्यडागमः॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः