मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९६, ऋक् १३

संहिता

अपा॒ः पूर्वे॑षां हरिवः सु॒ताना॒मथो॑ इ॒दं सव॑नं॒ केव॑लं ते ।
म॒म॒द्धि सोमं॒ मधु॑मन्तमिन्द्र स॒त्रा वृ॑षञ्ज॒ठर॒ आ वृ॑षस्व ॥

पदपाठः

अपाः॑ । पूर्वे॑षाम् । ह॒रि॒ऽवः॒ । सु॒ताना॑म् । अथो॒ इति॑ । इ॒दम् । सव॑नम् । केव॑लम् । ते॒ ।
म॒म॒द्धि । सोम॑म् । मधु॑ऽमन्तम् । इ॒न्द्र॒ । स॒त्रा । वृ॒ष॒न् । ज॒ठरे॑ । आ । वृ॒ष॒स्व॒ ॥

सायणभाष्यम्

अपाः पुर्वेषामित्येषा षोडशशस्त्रस्य याज्या। सुत्रितम् च। एवा हि शक्रो वशी हि शक्र इति जपित्वापाः पूर्वेषां हरिवः सुतानामिति यजति। आ. ६-२। इति॥

हे इन्द्र सुतानामभिषुतानां पुर्वेषां प्रातःसवनसम्पादितानाम् । कर्मणि षष्ठ्यावेते। अभिषुतान्प्रातः सवनिकान्सोमानित्यर्थः। तानपाः। अपिबः। हे हरिव इतीन्द्रसम्बोधनम् । हरिभ्यामश्वाभ्यां तद्वन्। यद्वा। ऋक्सामात्मकाभ्यां हरिभ्यां युक्त। ऋक्सामे वा इन्द्रस्य हरी। ऐ. ब्रा. २- २४। तै. सं . ६-५-९-२। ताभ्यामेष हरतिति ब्राह्मणम्। अथो अपि चेदं माध्यन्दिनं सवनं केवलं ते तवैवासाधारनम्। माध्यन्दिनं सवनं केवलं ते। ऋ. ४-३५-७। इति हि मन्त्रान्तरम्। तस्मिन्सवने हे इन्द्र मधुमन्तं माधुर्योपेतम् सोमं ममद्धि। पिब। आस्वादयेत्यर्थः। मदिरत्रास्वादनकर्मा। पिबन्तु मदन्तु वियन्त्विति च मन्त्रः। सत्रा वृषन्। सत्राशब्दो भूयिष्ठवचनः। हे भूयिष्ठ वर्शितरिन्द्र जठर आ व्रुषस्व। आसिञ्चस्व॥१३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः