मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९८, ऋक् ३

संहिता

अ॒स्मे धे॑हि द्यु॒मतीं॒ वाच॑मा॒सन्बृह॑स्पते अनमी॒वामि॑षि॒राम् ।
यया॑ वृ॒ष्टिं शंत॑नवे॒ वना॑व दि॒वो द्र॒प्सो मधु॑माँ॒ आ वि॑वेश ॥

पदपाठः

अ॒स्मे इति॑ । धे॒हि॒ । द्यु॒ऽमती॑म् । वाच॑म् । आ॒सन् । बृह॑स्पते । अ॒न॒मी॒वाम् । इ॒षि॒राम् ।
यया॑ । वृ॒ष्टिम् । शम्ऽत॑नवे । वना॑व । दि॒वः । द्र॒प्सः । मधु॑ऽमान् । आ । वि॒वे॒श॒ ॥

सायणभाष्यम्

हे बृहस्पते त्वमस्मे अस्मासु द्युमतीं दीप्तिमतीं वाचं स्तोत्रात्मिकामासन्नास्येऽस्मदीये धेहि। स्थापय। कीदृशीं वाचम्। अनमीवाममीवारहिताम्। वाचोऽमीवा नाम गद्गदादिदोषः। तथेषिरां गमनशीलाम्। यया वाचा स्तुत्यात्मकया देवानिष्ट्वा शन्तनवे वृष्टिकामाय वनाव सम्भजेवहि वृष्टिं त्वं चाहं च दिवो द्युलोकात्। त्वयाधिष्ठितो द्रप्स उदकस्यन्दो मधुमान् माधुर्योपेतं आ विवेश। आविशति वाचमिति समन्वयः॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२