मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९८, ऋक् ६

संहिता

अ॒स्मिन्त्स॑मु॒द्रे अध्युत्त॑रस्मि॒न्नापो॑ दे॒वेभि॒र्निवृ॑ता अतिष्ठन् ।
ता अ॑द्रवन्नार्ष्टिषे॒णेन॑ सृ॒ष्टा दे॒वापि॑ना॒ प्रेषि॑ता मृ॒क्षिणी॑षु ॥

पदपाठः

अ॒स्मिन् । स॒मु॒द्रे । अधि॑ । उत्ऽत॑रस्मिन् । आपः॑ । दे॒वेभिः॑ । निऽवृ॑ताः । अ॒ति॒ष्ठ॒न् ।
ताः । अ॒द्र॒व॒न् । आ॒र्ष्टि॒षे॒णेन॑ । सृ॒ष्टाः । दे॒वऽआ॑पिना । प्रऽइ॑षिताः । मृ॒क्षिणी॑षु ॥

सायणभाष्यम्

अस्मिन्पार्थिवे समुद्रे पूरणीये सति। अधीति सप्तम्यर्थानुवादी। उत्तरस्मिन्समुद्रेऽन्तरिक्षाख्य आप उदकानि देवेभिर्द्योतमानैर्निव्रुता निरुद्धा अतिष्ठन् ता आप आर्ष्टिषेणेनर्ष्टिषेणस्य पुत्रेण देवापिना सृष्टाः प्रेषिताः प्रकर्षेणेच्छां प्राप्ताः काङ्क्षिता मृक्षिणेषु मृष्टवतीषु परिम्रुष्टासु स्थलीष्वद्रवन्। स्रवन्ति॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२