मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९८, ऋक् ७

संहिता

यद्दे॒वापि॒ः शंत॑नवे पु॒रोहि॑तो हो॒त्राय॑ वृ॒तः कृ॒पय॒न्नदी॑धेत् ।
दे॒व॒श्रुतं॑ वृष्टि॒वनिं॒ ररा॑णो॒ बृह॒स्पति॒र्वाच॑मस्मा अयच्छत् ॥

पदपाठः

यत् । दे॒वऽआ॑पिः । शम्ऽत॑नवे । पु॒रःऽहि॑तः । हो॒त्राय॑ । वृ॒तः । कृ॒पय॑न् । अदी॑धेत् ।
दे॒व॒ऽश्रुत॑म् । वृ॒ष्टि॒ऽवनि॑म् । ररा॑णः । बृह॒स्पतिः॑ । वाच॑म् । अ॒स्मै॒ । अ॒य॒च्छ॒त् ॥

सायणभाष्यम्

यद्यदा देवापिरार्ष्टिषेणः शन्तनवे स्वभ्रात्रे कौरव्याय पुरोहितः सन् होत्राय होत्रार्थं व्रुतः सन् देवश्रुतम्। देवा एनं शृण्वन्तीति देवश्रुत्। तं तथा वृष्टिवनिं व्रुष्टियाचिनं ब्रुहस्पतिमदीधेत् अन्वध्यायत् स च रराणो रममाणो बृहस्पतिर्देवोऽस्मै देवापये वाचमयच्छत्॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३