मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९८, ऋक् १२

संहिता

अग्ने॒ बाध॑स्व॒ वि मृधो॒ वि दु॒र्गहापामी॑वा॒मप॒ रक्षां॑सि सेध ।
अ॒स्मात्स॑मु॒द्राद्बृ॑ह॒तो दि॒वो नो॒ऽपां भू॒मान॒मुप॑ नः सृजे॒ह ॥

पदपाठः

अग्ने॑ । बाध॑स्व । वि । मृधः॑ । वि । दुः॒ऽगहा॑ । अप॑ । अमी॑वाम् । अप॑ । रक्षां॑सि । से॒ध॒ ।
अ॒स्मात् । स॒मु॒द्रात् । बृ॒ह॒तः । दि॒वः । नः॒ । अ॒पाम् । भू॒मान॑म् । उप॑ । नः॒ । सृ॒ज॒ । इ॒ह ॥

सायणभाष्यम्

हे अग्ने दुर्गहा दुर्गहाणि दुःखेन गाहितव्यानि शत्रुपुराणि वि बाधस्व। तथामीवां रोगमप सेध। तथा रक्षांस्यप सेध। आपवारय। अस्मात्समुद्रात् समुद्द्रवणसाधनाद्ब्रुहतो महतो दिवो द्युलोकादन्तरिक्षाद्वापामुदकानां भूमानं बहुभावं व्रुष्टिसंस्त्यायमिहास्मिल्लोक उप सृज। प्रयच्छेत्यर्थः॥१२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३