मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०२, ऋक् ३

संहिता

अ॒न्तर्य॑च्छ॒ जिघां॑सतो॒ वज्र॑मिन्द्राभि॒दास॑तः ।
दास॑स्य वा मघव॒न्नार्य॑स्य वा सनु॒तर्य॑वया व॒धम् ॥

पदपाठः

अ॒न्तः । य॒च्छ॒ । जिघां॑सतः । वज्र॑म् । इ॒न्द्र॒ । अ॒भि॒ऽदास॑तः ।
दास॑स्य । वा॒ । म॒घ॒ऽव॒न् । आर्य॑स्य । वा॒ । स॒नु॒तः । य॒व॒य॒ । व॒धम् ॥

सायणभाष्यम्

हे इन्द्र जिघांसतो हन्तुमिच्छतोऽभिदासतोऽभिद्रुह्यतः शत्रोर्वज्रमन्तर्यच्छ। अन्तर्गमय। तदेवाह। हे मघवन्धनवन्निन्द्र दासस्य वोपक्षीणस्याल्पस्यार्यस्यभिगन्तव्यस्य महतो वा शत्रोर्वधम्। वज्रनामैतत्। हननसाधनं वज्रं सनुतः। अन्तर्हितनामैतत्। अन्तर्हितं गूढं प्रयुज्यमानं यवय। पृथक्कुरु॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०