मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०२, ऋक् ४

संहिता

उ॒द्नो ह्र॒दम॑पिब॒ज्जर्हृ॑षाण॒ः कूटं॑ स्म तृं॒हद॒भिमा॑तिमेति ।
प्र मु॒ष्कभा॑र॒ः श्रव॑ इ॒च्छमा॑नोऽजि॒रं बा॒हू अ॑भर॒त्सिषा॑सन् ॥

पदपाठः

उ॒द्नः । ह्र॒दम् । अ॒पि॒ब॒त् । जर्हृ॑षाणः । कूट॑म् । स्म॒ । तृं॒हत् । अ॒भिऽमा॑तिम् । ए॒ति॒ ।
प्र । मु॒ष्कऽभा॑रः । श्रवः॑ । इ॒च्छमा॑नः । अ॒जि॒रम् । बा॒हू इति॑ । अ॒भ॒र॒त् । सिसा॑सन् ॥

सायणभाष्यम्

अत्र वृषभः स्तूयते। वृषभ उद्न उदकस्य ह्रदमगाधजलाशयमपिबज्जर्हृषाणोऽत्यन्तं हृषितः सन्। तथा कूटं पर्वतशृंगं चोरैर्गोपिधानार्थं निहितं तृंहत्स्म। शृङ्गेण विहिंसितवान्। व्यदारयदित्यर्थः। तथा कृत्वाभिमातिमेति। शत्रुं गच्छति हन्तुं। पश्चान्मुष्कभारः प्रवृद्धमुष्कः। प्रव्रुद्धस्य वृषभस्य हि मुष्कवृद्धिर्भवति। तथा प्रवृद्धो व्रुषभः श्रवः। श्रूयत इति श्रवो यशः। इच्छमान इच्छन्नजिरं गमनशीलं शत्रुं बाहू बाहुभ्यां बाह्वोर्वा प्राभरत्। प्रहृतवान्। यद्वा। अजिरमिति क्शिप्रनाम। क्षिप्रं सिशासन् सम्भक्तुमिच्छन् बाहू प्राभरत् प्रसारितवानित्यर्थः॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०