न्य॑क्रन्दयन्नुप॒यन्त॑ एन॒ममे॑हयन्वृष॒भं मध्य॑ आ॒जेः ।
तेन॒ सूभ॑र्वं श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः प्र॒धने॑ जिगाय ॥
नि । अ॒क्र॒न्द॒य॒न् । उ॒प॒ऽयन्तः॑ । ए॒न॒म् । अमे॑हयन् । वृ॒ष॒भम् । मध्ये॑ । आ॒जेः ।
तेन॑ । सूभ॑र्वम् । श॒तऽव॑त् । स॒हस्र॑म् । गवा॑म् । मुद्ग॑लः । प्र॒ऽधने॑ । जि॒गा॒य॒ ॥
मुद्गल आह। तेनेति तच्छब्दश्रुतेर्यच्छब्दाध्याहारः। यमेनं व्रुषभं न्यक्रन्दयन् नितरां क्रन्दनमकुर्वन्। के। उपयन्तः समीपे गच्छन्तो नरः। यथा प्रचण्डेन क्रन्दनेन शत्रवो भीताः पलायन्ते तथाकुर्वन्। किम्। वृषभं वर्षकं सेक्तारमाजेः सङ्ग्रामस्य मध्येऽमेहयन् मूत्रपुरीशोत्सर्गं विश्रामार्थं कारितवन्तः सूभर्वम्। भर्वतिरत्तिकर्मा। शोभनचर्मणादिभक्शकम् । तादृशो यथा भवति तथा कृत्वेत्यर्थः। यद्वा। एतद्गोसहस्रविशेषणम्। तेनोक्तरूपेण वृषभेण सूभर्वं सुष्ठु यवसास्वादि शतवच्छतोपेतं गवां सहस्रंमुद्गल एतन्नामाहं प्रधने सङ्ग्रामे जिगाय। अजैषम्॥५॥