अप॒ योरिन्द्र॒ः पाप॑ज॒ आ मर्तो॒ न श॑श्रमा॒णो बि॑भी॒वान् ।
शु॒भे यद्यु॑यु॒जे तवि॑षीवान् ॥
अप॑ । योः । इन्द्रः॑ । पाप॑जे । आ । मर्तः॑ । न । श॒श्र॒मा॒णः । बि॒भी॒वान् ।
शु॒भे । यत् । यु॒यु॒जे । तवि॑षीऽवान् ॥
य इन्द्रः पापजे। आ इत्यनर्थकः। पापाज्जायत इति पापजो वृत्रः। तस्मिन्मर्तो न मनुष्य इव शश्रमाणस्तेन सह युद्धे श्राम्यन् बिभीवान् बिभ्यच्च भवति। श्राम्यतेश्चन्दसि लिट्। तस्य व्यत्ययेन कानच्। स इन्द्रो यद्यदा तविषीवान् मरुद्भिर्बलैर्बलवान्युयुजे युज्यते सम्पद्यते शुभे शोभार्थं तदा नीमपयोः। तस्य वृत्रस्यापयोरपयोजिता भवति॥३॥