मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०५, ऋक् ७

संहिता

वज्रं॒ यश्च॒क्रे सु॒हना॑य॒ दस्य॑वे हिरीम॒शो हिरी॑मान् ।
अरु॑तहनु॒रद्भु॑तं॒ न रजः॑ ॥

पदपाठः

वज्र॑म् । यः । च॒क्रे । सु॒ऽहना॑य । दस्य॑वे । हि॒री॒म॒शः । हरी॑मान् ।
अरु॑तऽहनुः । अद्भु॑तम् । न । रजः॑ ॥

सायणभाष्यम्

य इन्द्र सुहनाय सुष्थु हननीयाय दस्यव उपक्शपयित्रे शत्रवे तस्य वधाय वज्रं प्रहरणसाधनमायुधं चक्रे कृतवान् स त्वं वृजिना शिशीहीत्युत्तरसम्बन्धः। कीदृश इन्द्रः। हिरीमशो हरितश्मश्रुः। पृशोदरादिः। हिरीमान् हरिताश्वो हरितवर्नो वा अरुतहनुरबाधितहनुः। किमिव। अद्भुतं न रजः। अद्भुतमिति महन्नाम। रज इति रञ्जकमन्तरिक्शमुच्यते। महदन्तरिक्षमिव। तद्यथान्यैरबाध्यम् भवति तद्वत्॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७