प्रास्तौ॑दृ॒ष्वौजा॑ ऋ॒ष्वेभि॑स्त॒तक्ष॒ शूर॒ः शव॑सा ।
ऋ॒भुर्न क्रतु॑भिर्मात॒रिश्वा॑ ॥
प्र । अ॒स्तौ॒त् । ऋ॒ष्वऽओ॑जाः । ऋ॒ष्वेभिः॑ । त॒तक्ष॑ । शूरः॑ । शव॑सा ।
ऋ॒भुः । न । क्रतु॑ऽभिः । मा॒त॒रिश्वा॑ ॥
ऋषौजा दर्शनीयबलो व्याप्तबलो वर्ष्वेभिर्दशनीयैर्मरुद्भिः सह प्रास्तौत्। स्तुत्यादिकं सम्यक्कृतमनेनेति प्रशंसति। यद्वा। कर्मणि कर्तृप्रत्ययः। प्रकर्षेण स्तुतोऽभुत्। य इन्द्रः शूरो विक्रान्तो मातरिश्वा वृष्टेर्निर्मातर्यन्तरिक्षे श्वसन्वर्तमानह् सञ्शवसा बलेन क्रतुभिः क्रियमाणैः कर्मभिः। यद्वा। क्रतुरिति प्रज्ञानाम। बलेन प्राज्ञाभिस्च ततक्ष व्रुत्रवधादिकम् चकार। तत्र दृष्टान्तः। ऋभुर्नर्भव इव। सुपां सुलुगिति जसः सुरादेशः। ऋभवो यथा कर्मभिः प्रज्ञाभिश्चानन्यसाधारनरथचमसादिनिर्माणमकुर्वन् तद्वदित्यर्थः॥६॥