मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०५, ऋक् ८

संहिता

अव॑ नो वृजि॒ना शि॑शीह्यृ॒चा व॑नेमा॒नृचः॑ ।
नाब्र॑ह्मा य॒ज्ञ ऋध॒ग्जोष॑ति॒ त्वे ॥

पदपाठः

अव॑ । नः॒ । वृ॒जि॒ना । शि॒शी॒हि॒ । ऋ॒चा । व॒ने॒म॒ । अ॒नृचः॑ ।
न । अब्र॑ह्मा । य॒ज्ञः । ऋध॑क् । जोष॑ति । त्वे इति॑ ॥

सायणभाष्यम्

हे इन्द्र नोऽस्माकं वृजिना वृजिनानि वर्जनीयानि पापान्यव शिशीहि। अत्यर्थम् तनूकुरु। विनाशायेत्यर्थः। वयं चर्चा स्तुत्या साधनेनानृचोऽस्तुतिकानयजमानान्वनेम। हिंसाम। अब्रह्मा। ब्रह्म परिवृढं स्तोत्रम् । स्तुतिविरहितो यज्ञ ऋधक् सस्तुतिकाद्यज्ञात्पृथग्भुतस्त्वे त्वयि न जोषति। न सेवते त्वाम् । न प्रीणयतीत्यर्थः। जुषी प्रीतिसेवनयोः। व्यत्ययेन शप् परस्मैपदं च॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७