मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११५, ऋक् ९

संहिता

इति॑ त्वाग्ने वृष्टि॒हव्य॑स्य पु॒त्रा उ॑पस्तु॒तास॒ ऋष॑योऽवोचन् ।
ताँश्च॑ पा॒हि गृ॑ण॒तश्च॑ सू॒रीन्वष॒ड्वष॒ळित्यू॒र्ध्वासो॑ अनक्ष॒न्नमो॒ नम॒ इत्यू॒र्ध्वासो॑ अनक्षन् ॥

पदपाठः

इति॑ । त्वा॒ । अ॒ग्ने॒ । वृ॒ष्टि॒ऽहव्य॑स्य । पु॒त्राः । उ॒प॒ऽस्तु॒तासः॑ । ऋष॑यः । अ॒वो॒च॒न् ।
तान् । च॒ । पा॒हि । गृ॒ण॒तः । च॒ । सू॒रीन् । वष॑ट् । वष॑ट् । इति॑ । ऊ॒र्ध्वासः॑ । अ॒न॒क्ष॒न् । नमः॑ । नमः॑ । इति॑ । ऊ॒र्ध्वासः॑ । अ॒न॒क्ष॒न् ॥

सायणभाष्यम्

हे अग्ने त्वा त्वामित्येवमुक्तप्रकारेन व्रुष्टिहव्यस्यैतन्नामकस्यर्षेः पुत्रा उप्ततुतास उपस्तुता एतदभिधाना ऋषयः सूक्तद्रष्टारोऽवोचन्। अभ्यष्टुअवन्। तानृषींश्च त्वं पाहि । रक्ष। चवायोगे प्रथमेति न निघातः। तथा गृणतह् स्तोतृण् सूरिन्विदुषश्च पाहि। वषड्वषडिति मन्त्रेणोर्ध्वासो हविष्प्रदानार्थमूर्ध्वमुख हस्ताः सन्तोऽनक्षन्। व्याप्नुवन्। नक्षतिर्व्याप्तिकर्मा। नमो नम इत्येवमूर्थ्वासः स्तोतुमुद्युक्ता अनक्षतन्। य उक्तगुणास्तानुभयविधान्यष्टॄन् स्तोत्रॄन्पालय॥९॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९