मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३०, ऋक् २

संहिता

पुमाँ॑ एनं तनुत॒ उत्कृ॑णत्ति॒ पुमा॒न्वि त॑त्ने॒ अधि॒ नाके॑ अ॒स्मिन् ।
इ॒मे म॒यूखा॒ उप॑ सेदुरू॒ सद॒ः सामा॑नि चक्रु॒स्तस॑रा॒ण्योत॑वे ॥

पदपाठः

पुमा॑न् । ए॒न॒म् । त॒नु॒ते॒ । उत् । कृ॒ण॒त्ति॒ । पुमा॑न् । वि । त॒त्ने॒ । अधि॑ । नाके॑ । अ॒स्मिन् ।
इ॒मे । म॒यूखाः॑ । उप॑ । से॒दुः॒ । ऊं॒ इति॑ । सदः॑ । सामा॑नि । च॒क्रुः॒ । तस॑राणि । ओत॑वे ॥

सायणभाष्यम्

पुमान् पुरुष आदिपुरुषह् प्रजापतिरेनं यज्ञं तनुते। विस्तारयति। सृष्टवानित्यर्थः। तथा च ब्राह्मनम्। स प्रजापतिर्यज्ञमतनुत तमाहरत्तेनायजतेति। प्रजापतिर्यज्ञमसृजत यज्ञम् सृष्टमनु ब्रह्मक्शत्रे असृह्येतामिति च। ऐ. ब्रा. ५-३२-७-१९। स एव पुमान् सृष्टं तं यज्ञमुत्कृणत्ति। उद्वेष्टयति। कृती वेष्टने रौधादिकः। स एव पुमान् प्रजापतिरस्मिन्भूलोके नाके। अकं दुःखरनास्त्यस्मिन्निति नाकः स्वर्ग्लोकः। नभ्राण्नपादित्यादिना नञः प्रकृतिभावः। तत्र च वितत्ने। इमं यज्ञं विस्तारयति। अधिः सप्तम्यर्थानुवादी। तनोतेर्लिटि शनिपत्योश्छन्दसीत्युपधालोपः। तस्य स्थानिवद्भावाद्द्विर्वचनम्। मयूखा रश्मिभूतास्तस्य प्रजापतेः प्राणात्मका इमे विश्वसृजो देवाः सदः सदनं देवयजनस्थानमुपसेदुः। विश्वसर्जनहेतुभूतम् विश्वसृजामयनाख्यं यज्ञं कर्तुमुपसीदन्ति। उपसद्य च सामानि रथन्तरादिन्योतवे वयनाय यज्ञाख्यम् वस्त्रमोतुं तसराणि तिर्यक्सराणि तिरश्चीनसूत्राणि चक्रुः॥२॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८