मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३०, ऋक् ४

संहिता

अ॒ग्नेर्गा॑य॒त्र्य॑भवत्स॒युग्वो॒ष्णिह॑या सवि॒ता सं ब॑भूव ।
अ॒नु॒ष्टुभा॒ सोम॑ उ॒क्थैर्मह॑स्वा॒न्बृह॒स्पते॑र्बृह॒ती वाच॑मावत् ॥

पदपाठः

अ॒ग्नेः । गा॒य॒त्री । अ॒भ॒व॒त् । स॒ऽयुग्वा॑ । उ॒ष्णिह॑या । स॒वि॒ता । सम् । ब॒भू॒व॒ ।
अ॒नु॒ऽस्तुभा॑ । सोमः॑ । उ॒क्थैः । मह॑स्वान् । बृह॒स्पतेः॑ । बृ॒ह॒ती । वाच॑म् । आ॒व॒त् ॥

सायणभाष्यम्

सयुग्वा सहयुक्ताग्नेः सहायभूता गायत्र्यभवत्। यश्टव्यात्प्रजापतेर्मुखादजायत। देवतासु मध्येऽग्निश्छन्दसु गायत्री चोभावप्यजायेतामित्यर्थः। तथा च तैत्तिरीयकम् । प्रजापतिरकामयत प्रजायेयेति स मुखतस्त्रिवृतम् निरमिमीत तमग्निर्देवतान्वसृज्यत गायत्री छन्दः। तै. सं . ७-१-१-४। इति। उष्णिहयोष्णिक्छन्दसा सह सविता देवः सं बभूव। तस्मात्प्रजापतेर्जज्ञे। टापं चापि हलन्तानामिति वचनादुष्णिहशब्दाट्टाप्। तथा महस्वांस्तेजस्वी सोम उक्थैः स्तुतशस्त्रैरनुष्टुभानुष्टुप्छन्दसा च सार्धम् तस्मादेव प्रजापतेरजायत। तथा बृहस्पतेर्देवस्य वाचं वाक्यं बृहतीच्छन्द आदत्। आरक्षत्। अगच्छद्वा। बृहत्या सार्धं बृहस्पतिरपि तस्मात्प्रजापतेर्जज्ञ इत्यर्थः॥४॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८