मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३०, ऋक् ६

संहिता

चा॒कॢ॒प्रे तेन॒ ऋष॑यो मनु॒ष्या॑ य॒ज्ञे जा॒ते पि॒तरो॑ नः पुरा॒णे ।
पश्य॑न्मन्ये॒ मन॑सा॒ चक्ष॑सा॒ तान्य इ॒मं य॒ज्ञमय॑जन्त॒ पूर्वे॑ ॥

पदपाठः

चा॒कॢ॒प्रे । तेन॑ । ऋष॑यः । म॒नु॒ष्याः॑ । य॒ज्ञे । जा॒ते । पि॒तरः॑ । नः॒ । पु॒रा॒णे ।
पश्य॑न् । म॒न्ये॒ । मन॑सा । चक्ष॑सा । तान् । ये । इ॒मम् । य॒ज्ञम् । अय॑जन्त । पूर्वे॑ ॥

सायणभाष्यम्

पुराणे चिरन्तनेऽस्मिन्यज्ञे जाते विश्वसृड्भिर्देवैः सम्यगनुष्ठिते सति तेन यज्ञेनर्षयो मनुष्या नोऽस्माकं पितरः पूर्वपुरुषाश्च चाक्लृप्रे। अकल्प्यन्त। असृज्यन्त। इममीदृशं यज्ञं ये पूर्वे साध्या देवाः प्रजापतेः प्राणभुता अयजन्त अन्वतिष्ठन् तान्देवान्प्रानात्मना सर्वत्र वर्तमानांश्चक्षसा दर्शनहेतुना मनसा पश्यञ्जानन्मन्ये। तानेव विश्वस्रष्टॄन्देवान् स्त्ॐइ। मन्यतिरर्चतिकर्मा॥६॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८