मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३४, ऋक् ७

संहिता

नकि॑र्देवा मिनीमसि॒ नकि॒रा यो॑पयामसि मन्त्र॒श्रुत्यं॑ चरामसि ।
प॒क्षेभि॑रपिक॒क्षेभि॒रत्रा॒भि सं र॑भामहे ॥

पदपाठः

नकिः॑ । दे॒वाः॒ । मि॒नी॒म॒सि॒ । नकिः॑ । आ । यो॒प॒या॒म॒सि॒ । म॒न्त्र॒ऽश्रुत्य॑म् । च॒रा॒म॒सि॒ ।
प॒क्षेभिः॑ । अ॒पि॒ऽक॒क्षेभिः॑ । अत्र॑ । अ॒भि । सम् । र॒भा॒म॒हे॒ ॥

सायणभाष्यम्

हे देवा इन्द्रादयः युष्मद्विषये नकिर्मिनीमसि। न किमपि हिंस्मः। मीङ् हिंसायां क्रैयादिकः। मीनातेर्निगम इति ह्रस्वः। इदन्तो मसिः। आकारः समुच्चये। नकिर्न किञ्च योपयामसि। योपयामः। अननुष्थाने विमोहयामः। युप विमोहने। किं तर्हि मन्त्रश्रुत्यं मन्त्रेण स्मार्यं श्रुतौ विधिवाक्ये प्रतिपाद्यं युष्मद्विषयं कर्म तच्चरामसि। आचरामः। अनुतिष्थामः। अपि च पक्षेभिः पक्षैः पक्शस्थानीयैः स्तुत शस्त्रैरपि कक्षेभिः। अपिकक्शो नाम बाह्वोर्मध्यभागः। यज्ञस्यापिकक्षभूतैर्हविर्भिरत्रास्मिन्यज्ञेऽभितः सर्वतो युश्मान्संरभामहे। सम्यगवलंबामहे॥७॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२