मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५४, ऋक् १

संहिता

सोम॒ एके॑भ्यः पवते घृ॒तमेक॒ उपा॑सते ।
येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ ताँश्चि॑दे॒वापि॑ गच्छतात् ॥

पदपाठः

सोमः॑ । एके॑भ्यः । प॒व॒ते॒ । घृ॒तम् । एके॑ । उप॑ । आ॒स॒ते॒ ।
येभ्यः॑ । मधु॑ । प्र॒ऽधाव॑ति । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥

सायणभाष्यम्

सोम इति पञ्चर्चं तृतीयं सूक्तमानुष्तुभम्। विवस्वतो दुहिता यम्यृषिः। म्रियमाणानां यजमानादीनां वर्तमत्र प्रतिपाद्यते। अतस्तद्देवताकमिदम्। तथा चानुक्रान्तम्। सोमो यमी भाववृत्तमानुष्टुभं त्विति। प्रेतोपस्थान एतत्सूक्तम्। सूत्रितं च। सोम एकेभ्य उरूणसावसुतृपा उदुम्बलौ। आ. ६-१०। इति॥

एकेभ्यः केभ्यश्चित्पितृभ्यः सोमः पवते। उपभोगाय कुल्यारूपेण प्रवहति। एषां गोत्रजाः सामानि ब्रह्मयज्ञसमयेऽधीयते। श्रूयते हि। यत्सामानि सोम एभ्यः पवत इति। एकेऽन्ये पितरो घृतमाज्यमुपासते। उपगच्छन्ति। उपभुञ्जत इत्यर्थः। एषां पुत्रादयो यजूंषि ब्रह्मयज्ञकालेऽधीयते। श्रुतिश्च भवति। यद्यजूंषि घृतस्य कुल्या इति। येभ्यः पितृभ्यः। तादर्थ्ये चतुर्थी। उपभोगार्थं मधु क्षौद्रं प्रधावति प्रवाहरूपेण शीघ्रं गच्छति। य आथर्वणान्मन्त्रान्ब्रह्मयज्ञार्थमधीयते तेषां पितॄन्मधुकुल्या प्रवहति। तथा चाम्नायते। यदाथर्वणाङ्गिरसो मधोः कुल्या इति। तांश्चिदेव तान्पूर्वोक्तान्सर्वानेव हे प्रेत त्वं प्रत्यपि गच्छतात्। आपिगच्छ। प्राप्नुहि॥१॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२