मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५४, ऋक् २

संहिता

तप॑सा॒ ये अ॑नाधृ॒ष्यास्तप॑सा॒ ये स्व॑र्य॒युः ।
तपो॒ ये च॑क्रि॒रे मह॒स्ताँश्चि॑दे॒वापि॑ गच्छतात् ॥

पदपाठः

तप॑सा । ये । अ॒ना॒धृ॒ष्याः । तप॑सा । ये । स्वः॑ । य॒युः ।
तपः॑ । ये । च॒क्रि॒रे । महः॑ । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥

सायणभाष्यम्

ये जनास्तपसा कृच्छ्रचान्द्रायणादिना युक्ताः सन्तोऽनाधृष्याः पापैरप्रधृष्या भवन्ति। ये च तपसा यागादिरूपेण साधनेन स्वर्ययुः स्वर्गं यान्ति प्राप्नुवन्ति। ये च महो महत्तपोऽन्यैर्दुष्करं राजसूयाश्वमेधादिकं हिरण्यगर्भाद्युपासनं वा चक्रिरे कुर्वन्ति एतेषु प्रवर्तन्ते तेषु लोकेषु। तांश्चित्तानेव तपस्विनो हे प्रेत अपिगच्छ॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२